LyricFind Logo
LyricFind Logo
Profile image icon
Lyric cover art

Aditya Hridaya Stotram

Apple Music logo
Deezer logo
Spotify logo
Lyrics
ॐ अस्य आदित्यहृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः,
श्री आदित्यहृदयभूतो भगवान् ब्रह्मा देवता
निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।

जयति जयति सूर्यः सप्त लोकेक दीपः
किरण म्रुतिथ तापः सर्व दुःखस्य हरत
अरुण किरण गम्यः आदिरादित्य मूर्तिः
परम परम दिव्यः भास्करस्थं नमामि

ॐ ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || १ ||
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपागम्याब्रवीद्राममगस्त्यो भगवांस्तदा || २ ||
राम राम महाबाहो श्रृणु गुह्यं सनातनम् |
येन सर्वानरीन् वत्स समरे विजयिष्यसि || ३ ||
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् |
जयावहं जपेन्नित्यमक्षयं परमं शिवम् || ४ ||
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् |
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् || ५ ||
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || ६ ||
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुरगणान् लोकान् पाति गभस्तिभिः || ७ ||
एष ब्रह्मा विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः || ८ ||
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः || ९ ||
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || १० ||
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् |
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्डकोंऽशुमान् || ११ ||
हिरण्यगर्भः शिशिरस्तपनोऽहर्रकरो रविः |
अग्नर्गर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || १२ ||
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः |
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः || १३ ||
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || १४ ||
नक्षत्रग्रहताराणामधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते || १५ ||
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः |
ज्योतिर्गणानां पतये दिनाधिपतये नमः || १६ ||
जयाय जयभद्राय हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः || १७ ||
नम उग्राय वीराय सारङ्गाय नमो नमः |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः || १८ ||
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || १९ ||
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || २० ||
तप्तचामीकराभाय हरये विश्वकर्मणे |
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे || २१ ||
नाशयत्येष वै भूतं तमेष सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || २२ ||
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः |
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || २३ ||
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु सर्वेष्वेव स्थित एषः || २४ ||
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च |
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव || २५ ||
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् |
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || २६ ||
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि |
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् || २७ ||
एतच्छ्रुत्वा महातेजा रामो हर्षसमन्वितः |
धारयामास सुप्रीतो आदित्यहृदयं स्तोत्रम् || २८ ||
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् |
त्रिरावृत्त्या शुचिर्भूत्वा धृत्वा चापम् दृढं तदा |
रावणं प्रेक्षमाणो हि हर्षितोऽभवद् राघवः || २९ ||
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणैः
निशिचरपतिसंक्षयं विवित्वा सुरगणमध्यगतो वचस्त्वरेति
श्री आदित्य हृदय स्तोत्रम् सम्पूर्णम्

WRITERS

Traditional

PUBLISHERS

Lyrics © ForeVision Digital

Share icon and text

Share


See A Problem With Something?

Lyrics

Other