LyricFind Logo
LyricFind Logo
Profile image icon
Lyric cover art

Pitru Stotra

Apple Music logo
Deezer logo
Spotify logo
Lyrics
अर्चितानाममूर्तानां
पितृणां दीप्ततेजसाम्
नमस्यामि सदा तेषां
ध्यानिनां दिव्यचक्षुषाम्
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान्
मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा
तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा
द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि:
प्रजापते: कश्यपाय सोमाय वरुणाय च
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि:
नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा
नमस्यामि तथा सोमं पितरं जगतामहम्
अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम्
अग्नीषोममयं विश्वं यत एतदशेषत:
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय:
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण:
तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानस:
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुज

WRITERS

Traditional

PUBLISHERS

Lyrics © Royalty Network

Share icon and text

Share


See A Problem With Something?

Lyrics

Other