नमस्ते नरसिंहाय प्रह्लादाह्लाद-दायिने
हिरण्यकशिपोर्वक्षः-शिला-टङ्क-नखालये
इतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः
बहिर्नृसिंहो हृदये नृसिंहो नृसिंहमादि शरणं प्रपद्ये
तव कर-कमल-वरे नखम् अद्भुत-श्रृंङ्गम्
दलित-हिरण्यकशिपु-तनु-भृंङ्गम्
केशव धृत-नरहरिरूप जय जगदीश हरे
जय जगदीश हरे, जय जगदीश हरे, जय जगदीश हरे