आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर |
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते |
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् |
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् |
लोहितं रथमारूढं सर्वलोकपितामहम् |
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् |
त्रैगुण्यं च महाशूरं ब्रह्माविष्णुमहेश्वरम् |
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् |
बृंहितं तेजःपुञ्जं च वायुराकाशमेव च |
प्रभुः च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् |
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् |
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् |
तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम् |
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् |
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् |
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् |
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् |