LyricFind Logo
LyricFind Logo
Profile image icon
Lyric cover art

Gurupaduka Stotram

Apple Music logo
Deezer logo
Spotify logo
Lyrics
अनन्तसंसारसमुद्रतार
नौकायिताभ्यां गुरुभक्तिदाभ्याम्
वैराग्यसाम्राज्यदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्

कवित्ववाराशिनिशाकराभ्यां
दौर्भाग्यदावाम्बुदमालिकाभ्याम्
दूरीकृतानम्रविपत्तिताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्

नता ययोः श्रीपतितां समीयुः
कदाचिदप्याशु दरिद्रवर्याः
मूकाश्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्

नालीकनीकाशपदाहृताभ्यां
नानाविमोहादिनिवारिकाभ्याम्
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्

नृपालिमौलिव्रजरत्नकान्ति
सरिद्विराजज्झषकन्यकाभ्याम्
नृपत्वदाभ्यां नतलोकपङ्क्तेः
नमो नमः श्रीगुरुपादुकाभ्याम्

पापान्धकारार्कपरम्पराभ्यां
तापत्रयाहीन्द्रखगेश्वराभ्याम्
जाड्याब्धिसंशोषणवाडवाभ्याम्
नमो नमः श्रीगुरुपादुकाभ्याम्

शमादिषट्कप्रदवैभवाभ्यां
समाधिदानव्रतदीक्षिताभ्याम्
रमाधवाङ्घ्रिस्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्

स्वार्चापराणामखिलेष्टदाभ्यां
स्वाहासहायाक्षधुरन्धराभ्याम्
स्वान्ताच्छभावप्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्

कामादिसर्पव्रजगारुडाभ्यां
विवेकवैराग्यनिधिप्रदाभ्याम्
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
नमो नमः श्रीगुरुपादुकाभ्याम्
नमो नमः श्रीगुरुपादुकाभ्याम्

WRITERS

DEVASSY STEPHEN, TRADITIONAL

PUBLISHERS

Lyrics © Divo TV Private Limited, INRECO / HINDUSTHAN MUSIC PUBLISHING PRIVATE LIMITED, Sony/ATV Music Publishing LLC

Share icon and text

Share


See A Problem With Something?

Lyrics

Other

From This Artist