LyricFind Logo
LyricFind Logo
Profile image icon
Lyric cover art

Thotakashtakam

•

2022

Thotakashtakam

Apple Music logo
Deezer logo
Spotify logo
Lyrics
ओम नमः शिवाय

विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे
हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम्
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे
हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम्
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम्
रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम्
भवता जनता सुहिता भविता निजबोधविचारण चारुमते
कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम्

ओम, ओम, ओम, ओम

भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता
मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणम्
सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता
अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम्

ओम नमः शिवाय
(नमः शिवाय)
(नमः शिवाय)

जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः
अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम्
गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां नहि कोऽपि सुधीः
शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम्
विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो
द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम्

WRITERS

ARMONIAN

PUBLISHERS

Lyrics © IPRS

Share icon and text

Share


See A Problem With Something?

Lyrics

Other

More From This Album

Lyric cover art

Thotakashtakam

2022

01

Thotakashtakam

Armonian

From This Artist