सदा सत्स्वरूपं चिदानन्दकन्दं जगत्सम्भवावस्थानसंहार हेतुम्।
स्वभक्तेच्छया मानुषं दर्शयन्तं, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
भवध्वान्तविद्वंसमार्ताण्डमीड्यं मनोवागगम्यं मुनिध्यानगम्यम्।
जगद्व्यापकं निर्मलं निर्गुणं त्वां, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
भवाम्भोधिमग्नार्दितानां जनानां, स्वपादाश्रितानां स्वभक्तिप्रियाणाम्।
समुद्धारणार्थं कलौ सम्भवन्तं, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
सदा निम्बवृक्षस्य मूलाधिवासात् सुधास्त्राविनं तिक्तमप्यप्रियं तम्।
तरुणकल्पवृक्षाधिकं साधयन्तं, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
सदा कल्पवृक्षस्य तस्याधिमूले, भवेत्भावबुद्ध्या सपर्याधिसेवाम्।
नृणां कुर्वतां भुक्तिमुक्तिप्रदं तं, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
अनेकश्रुततर्क्यलीलाविलासैः समाविष्कृतेशानभास्वत्प्रभावम्।
अहंभावहीनं प्रसन्नात्मभावं, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
सतां विश्रमारममेवाभिरामं, सदा सज्जनैः सन्नुतं सन्नमद्धिः।
जनमोददं भक्तभद्रप्रदं तं, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
अजन्माध्यमेकं परं ब्रह्म साक्षात् स्वयं सम्भवं राममेवावतारम्।
भवदर्शनात् संपुनीतः प्रभोहं, नमामि ईश्वरं सद्गुरुं साईनाथम्॥
श्रीसाईश कृपानिधे खलिनृणां सर्वार्थसिद्धिप्रद।
यूष्मत्पादरजः प्रभावमतिुलं धाता अपि वक्ता क्षमः॥
सद्भक्त्या शरणं कृताञ्जलिपुटः सम्प्रापितोस्मि प्रभो।
श्रीमत्सौपरेश पादकमलं नान्यच्च शरण्यं मम॥
साईरूपधार राघवोत्तमं भक्तकामविभुदद्रुमं प्रभुम्।
माययोपहतचित्तशुद्धये चिन्तयाम्यहमहर्निशं मुदा॥
शरच्चन्द्रिकाप्रतिमप्रकाशं कृपातपत्रं तव साईनाथ।
त्वदीयपादाब्जशरणानां स्वच्छायया तापमपाकरोतु॥
उपासनादैवतः साईनाथ स्तवैर्मयोपासिना स्तुतस्त्वम्।
रामे मनो मे तव पादयुग्मे भृङ्गो यथाब्जे मकरन्दलुब्धः॥
अनेकजन्मार्जितपापसंक्षयो भवेद्भवत्त्पादसरोजदर्शनात्।
क्षमस्व सर्वानपराधपुञ्जकान् प्रसीद साईश गुरो दयानिधे॥
श्रीसाईनाथ चरणामृतपूतचित्तास्तत्पादसेवनरताः सततं च भक्त्या।
संसारजन्यदुरितौघविनिर्गतास्ते कैवल्यधाम परमं समाप्नुवन्ति॥
स्तोत्रमेतत्पठेद्भक्त्या यो नरस्तन्मनः सदा।
सद्गुरोः साईनाथस्य कृपापात्रं भवेद्ध्रुवम्॥
गुरचरणकृतमभा दाय्नम गर्बदमभा
श्रवणमेर यम्भा मानसं वारपरात्म
विधम विध्मबा सर्व में दकषसमव
जय जय करुनात्रे श्री भव साईनाथ
श्री सत्चिदानन्द सद्गुरु साईनाथ महाराज की जय